Shri Aadi Veer Shankar Stotra (Hindi Lyrics) Jain Song

प्रचंड चण्ड दण्ड पिण्ड खण्ड खण्ड खंडनं
न दण्डिकं सुपण्डितं च गण्ड घण्डु गुण्डकं
न गण्डकं न तुण्डिलं तु दण्ड गुण्डिताश्रयं
प्रणाम मादितीर्थ  मादिनाथ मादिशंकरं।।1।।

अजेयदेव जैन जीवभावरक्त जीवनं
जितेन्द्रियं जीताहवं जितात्मदेव जोषणं
अनात्मभाव जित्वरं च जन्म मृत्युजित्वरं
अजेयकर्मभूपतीन पराजितं जयाजितं।।2।।

सुभावनो च भावशून्य भावविद् विभावनं
भविष्यभाव भावकश्च भावरूप भावकः
असंभवो न संभवो हि संभवो च संभव
भवादृशो भवातपरो भवंहरो न सम्भवः।।3।।

नितांत नन्दनं च नन्दनं च नंदिकेश्वरं
नरं नरेश निर्मदं नरी निरीह नायकम्।
नरामरादी वंद्यकं निजात्मनो निबोधकं
नमामि चाभिनन्दनं च नातिवाद नंदथुम् ।।4।।

दरिद्र दर्प धर्ष धर्त्र धृष्ट धात्रतश्च्युतं
धुरंधरं धनिष्ठ धृत्व धृष्णु धुर्म संयुतम्।
प्रशान्त शुद्ध देह वाक्य चित्त चेतना युतं।
सुबद्धिदं च तं च तं च पं च कं च पंचमम्।।5।।

सुपद्मनाथ पद्मनाभ पद्मदेव देवतं
सुपद्मबंधु पद्मगंध पद्मपाणि पद्मदडैम
सुपद्मवर्ण पादपदम पद्म पद्मलांछन
परात्म पद्मतीर्थकं च पद्मवारवंदनम।।6।।

सुपर्श्वभाग युक्त तीर्थकारकं सुवर्णकं 
सुपार्श्ववर्ति भव्यसर्व पापपंक भंजकम्
सुपारिपार्श्व पारिपार्श्विका परिस्थितं शलं
सुपार्श्विकं नमाम्यपार्श्वकं  सुपार्श्वतीर्थकम्।।7।।

अमूर्तजीवचंद्र चन्द्रतुंड चंद्रलांछनं
सुचन्द्र!चंद चंदिरं च चंद्रमाश्च चन्दरकः।
सुचारू चंद्रचर्य चर्चितार्चितं च चन्द्रिलं
जिनेन्द्रचंद्र चंद्रनाथ तीर्थकारमीश्वरं।।8।।

पुनीत पुष्कलं च शुभ्ररश्मिपुष्पं वर्णकं
सुपुण्यबोध पुष्पितं च पुष्प केतु मर्दनम्।
सुपुष्पपुष्पसंयुतं च पुष्प रेणु गंधकं
सुपुष्पदंत पुष्पदंत पुष्पपूज्य वंदनम्।।9।।

विशाल शील शीलशालिनं च शीतलप्रदं
शयाच्च शायकाद शालिनं शिवं च शिल्पीनम्।
अशीतशीतयोग शालिनं च शीत शीतलं
नमामि शीतलाच्च शीतलं च शील शीलितम्।।10।।

अढाटडं त्रिलोक तारकोडुपापटम् पटुं
त्रिपिष्ठ तीर्थ तैर्थिकं त्रिचक्षुसं सुतैतिलम्।
तरस्वतं तू तर्ककं तितिक्षु तीक्ष्ण तार्किककं
त्रियोगतो हि नौमी श्रेयसं जिनं जिनेश्वरं।।11।।

वसुंधरावसुं वसुंधरावरं सु सुंदरं
वयोवरं वरं वचं वशंवदं वनेवसम्।
वरप्रदं पदप्रदं सुवातवस्तुदं वदं
सदा हि पूजयामि वासुपूज्य पूज्य पूज्यकम् ।।12।।

विकारितच्युतं विचेष्टितच्युतं विटच्युतं
विमोदक्षदं निजात्मदेवकेवलाद्वि कासकम्।
विहीनवासनां विदं विकर्षणं विमर्दकं
त्रयोदशं दिवाकरं जिनेन्द्रदेव निर्मलम् ।।13।।

अचिन्त्य सौख्यदं विभुम् विचिन्त्य तत्त्व शोधकं
विचेतनं सचेतनं विचक्षणं विचारकम् ।
विभाव भाव नाशकं स्वभाव भाव दायकं
अनंतबोध वीर्यदं नमाम्यनंत चेतनम् ।।14।।

सुधर्मयुक्तसद्वनेस्तमिस्रनाशकं धवं
धनस्य लोभवर्जितं च धेय धारणं ध्रुवम् ।
विधर्मभाव धर्ष धाष्टर्य धौतकं सुधार्मिणं
नमामि धर्मदेव धर्मनाथ धार्म धार्मिकम् ।।15।।

प्रशांतकाम शांत शान्तिदं प्रशांतिदं शमं
प्रशांतबाध शासनं प्रशंसीतं प्रशामदम् ।
निजात्मशांति शापितं च शान्तिदूत शान्तिकं
ददातु शान्तिमीशमाशु  शान्तिनाथ शन्तनो ! ।।16।।

पदत्रयस्य शालिनं नरामरारिसेवितं
कुलीनकुंडिरं कुतूहलं च साधुकुंजरम् ।
कृतार्थशासनस्य संकुमार युं च कुन्थकं
मुनीन्द्र कुंथुनाथ सर्वजीवनाथ तीर्थकम् ।।17।।

परारि रागरज्जुसंपदस्थ चक्रधारकः
पुनश्च धर्मचक्रधारको नरेशसेवितः ।
परस्य संपराभवः परंतपं परात्परं
नमामि नारसारजोSरनाथतीर्थचक्रकम् ।।18।।

अबाल्यबल्य बल्य मोहमल्लमान भंजनं
सजल्लमल्ल मूलिकं ललाम जल्प चातुरम् ।
विशल्य मल्ल कल्प कल्य कल्य काल्य मेलनं
सुमल्लिगंध मल्लिनाथ मल्लसाधु वंदनम् ।।19।।

सुदीर्घ कीर्ति तीर्थकार पंचगुप्तलांछनं
निजात्म तीर्थ लब्धनार्थ सुव्रतानि धारकम् ।
विचित्र वर्तमान काल वंदितं सुतीर्थकं
महाव्रतं च सुव्रतं ददं सुसाधुसुव्रतम् ।।20।।

नमो नमो नमो नमो नमस्यनाय नायकं
नियाम नैमयं नु निर्निमित्तमित्र नर्मदम् ।
निदर्शनं नहुष्क नाग नारदैर्नमस्कृतं
नमोगुरुम नमस्कृतीं नमोSस्तु तं च मि नमिम् ।।21।।

अरिष्टनेमिनाथ! नेमिने!निमे!नुते!मुने!
गरिष्ठ-पुष्ट-पुष्टिदं बलिष्ठ पौष्टिकप्रदः ।
समस्त विष्टपे निकृष्टवसनाग वर्जितो
विशिष्ट शिष्ट शिष्टहार रिष्टको विशिष्टकः ।।22।।

विरोधतश्च यो नभस्चरैहः स्थिरस्च संकटे
तडट तडट् तडट् तडन्नीनादकैर्भयंकरे ।
निजात्मशुद्धमंदिरे ध्रुवे वसेच्च पार्श्व!मे
समत्वमूर्ति पार्श्वनाथ!काशिपार्थ नंदन! ।।23।।

महत्तरं महानुभाव मोक्षमार्ग मार्गिकं
महार्णवं महन्त मंगलं महार्ह माठरम् ।
ममात्म मार्जनं महालयं मराल मार्मिकं
नमोस्तु मंत्रतो महा महात्मवीर शंकरम् ।।24।।

पठेत्कृतं विशुद्ध नंदनेन शासकस्तुतीं
भवेत्स्मररंब्रूवज्जनः सुकीर्ति बुद्धि शालिनः ।
पुनश्च सो निजात्म भक्तिरंजितश्च नित्यशः
समस्त कर्मणाम विनश्य चादिवीरवद भवेद ।।25।।

Comments